पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । परिशिष्ट प्रकाशः | रोपात् माणवकस्येवाग्नित्वम् । मङ्गल्ये च विवाहपुत्रजन्मादी अश्रुमुखानाममाङ्गलिकानां श्राइसविधी आरोपादपि माङ्गलिक- नान्दोमुखशब्देन निर्दिशों युक्तः । अतएवामाङ्गलिक कपालादि- शब्दवाचे आरोपादपि चमङ्गलपरिहाराय भगालादिशब्दं श्री- कामज्ञानादिवाचक- भगपदयुक्त मुनयः प्रयुञ्जते । एवमायुष्य- मन्त्रजपोऽपि शान्त्यर्थमुपपन्नो भविष्यति । अतएव = " पठेत् छन्दांसि सुन्तु खस्तिस्क्तं शुभं तथा” । इति ब्रह्मपुराणेऽपि स्वस्त्ययनार्थं सुक्ताजपोपदेश एवमुपपन्नो- भविष्यति । क्वचिकत्यस्य च क्वचिदारोपात् आरोपार्थमेव वास्तव नान्दीमुखत्वं ब्रह्मपुराणे दर्शितम् । ● केचित्तु शाखाविशेषव्यवस्थित ब्रह्मपुराणीयः पच इत्याहुः | प्रभा । [ १प्र. १ख. ] सवें एतत् श्राद्धकल्पभाव्यादौ विवेचितमस्माभिस्तत्रैवानुसन्धेयम् । ग्रन्थगौरवभयादिह नोच्चते। यच्चोक्तं नारायणोपाध्यायेन, स्व- जनकादीनां देवतालावगतेस्तेषामेवारोपेण नान्दीमुखत्वं माण- वकस्याग्नित्ववत् । माङ्गलिके विवाहादावमाङ्गलिकानाम- मुखानामारोपेणाऽपि माङ्गलिकनान्दोमुखपदेन निर्देशो युक्तः । अतएवामाङ्गलिककपालादिशब्दवाचे अमङ्गलपरिहाराय आरो पादपि श्रीकामज्ञानादिवाचकभगपदयुक्तं भगाला दिशब्दं मुनयः प्रयुते । क्वचित् सत्यस्यैवान्धवारोपात् आरोपार्थमेव वास्तवं नान्दौमुखवं ब्रह्मपुराणे दर्शितम्, इति । सेयं कल्पना रमणीया |