पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोपः | ६१ आदित्य एव ये पितरः त एव पिपितामहप्रपितामह शब्दवाच्या; न केवलं देवदत्तादय एव श्राद्धदेवताः श्राद्धकर्मणि सम्प्रदानभूताः, मनुष्याणां पिहृन्देवदत्तादौन् स्वयं श्राद्धेन तर्पितास्तर्पयन्ति ज्ञानभक्त्यतिशययोगेन" ॥ इति । हरिहरादयोऽपि इममेवायें मन्यन्त इति हेमाद्रावेव वर्णितम् । " यत्तु शूलपाणिना- “श्रुतिस्मृतिविरोधे तु" इति कात्याय- नवचनमपि स्वावलम्बतया खौकृतं तदिदम्- “यत्र पुनर्सिङ्ग च प्रत्यक्षं श्रुतिस्त्वानुमानिकौ, तत्र कथम् ? श्रुतिरेव बलीयसी”ति तन्त्रवार्तिक सिद्धान्त विरुद्धम् । विधिपरयो खस्सु श्रुतिस्मृत्योः श्रुतिर्बलौयमोति कात्यायनवचनेन निरूपितम्, न तु श्रौतमन्त्र- लिङ्गविधिपरस्मृत्योर्विरोधेऽपि । श्रुतिरेषा सनातनी ”ति वदन् भगवान् मनुर्हि वस्त्रादिदेवता- त्वमपि सनातनवेदसिद्धमेव निरूपयतीति कथं मनुवचनस्त्र श्रुत्यन्तरविरोधेनान्यथा नयनम् ? मनुर्हि भगवान् " आसावेतत्ते यजमानस्य पित्रे' इत्यादिशतपथश्रुतिगतपित्रादिपढानामेव वस्वादिपरत्वं व्यवस्थापयति । तथाच निबन्धकृत व्यवस्थापेच्या स्मृतिकाराणां व्यवस्थायाः प्रबलत्वात् मन्वादिवचमानामन्यथानयनं निबन्धनकाराणां मङ्गन्तं पश्यामः । स्मृतिवचनानि ह्युपदेशरूपाणि न मन्वादिभिः खबुद्धिकल्पितानि परीचारूपाणि निबन्धनवचनानौवेति वस्खादि- • देवतात्वपचमेव वयमपि समुचितं पश्यामः । तथाच पिटमाता-