पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ कर्मप्रदोषः । अत्र यः श्राद्धं कुर्यादित्यनेनाकरणपचोऽपि सूचितः । यस्य पिता प्रेतः स्यात् स पित्रे पिण्डं निघाय प्रपिता महात्परं दाभ्यां दद्यात् । च पितेव प्रेतो न पितामहप्रपितामहावित्येवकारो द्रष्टव्यः | यस्य पिता पितामहश्च घेतौ स्याताम्, स ताभ्यां पिण्डौ दत्वा पितामहपितामहाय दद्यात् । अत्राप्येवकारात्प्रपितामहजौवनं गम्यम् । यस्य पितामहः प्रेतः स्यात् स तस्मै पिण्डं निघाय प्रपिता महात्परं दाभ्यां दद्यात् । अत्राप्येवकारोऽष्याहार्यः । श्रयमच षष्ठः कल्यः -- यः केवलं पितामहे प्रमौते त्रियमाणयोश्च पितृप्रपितामहयोरवसरं लभते । अस्मिन्दिकल्पे •पितामहाय पिण्डं दत्वा प्रपितामहात्परं दाय पिण्डदयं देयम् । पिटप्रपितामहयोर्मृतयोजौवति च पितामहे सप्तमः पक्षः, यत्र पिटप्रपितामहाभ्यां पिण्डौ दत्वा पितामहपितामहा देयमिति निर्णय इति विष्णुवचनतात्पर्य मनसि निधायाह- अव चेति । अयमाशयः अन्तर्हितेभ्योऽनन्तर्हितेभ्यो वा प्रेतेभ्यस्लिभ्यः क्रमेण पिण्डदानं कर्तव्यमिति १ (ख) प्रपितामदाय (च) अवगम्यम्।