पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० कर्मप्रदोषः । वृश्रिाइप्रकरणम् ॥ अवेदानो॑ जौवत्पित्वकाधिकारिकेषु श्राद्धेषूच्यते । स्मार्त स्याप्यस्य श्रद्धस्य वैदिकवत्कर्तव्यत्वमेव । तदुक्तम्- “श्रुतिस्मृतिविरोधे तु श्रुतिरेव गरौयमौ । अविरोधे सदा कायें स्मातें वैदिकवत्सदा ॥” इति । ननु श्राद्धकरणं यदि स्मार्तमेव, तर्हि कथं तस्यानुष्ठेयत्वम् । न हि पौरुषेयो स्मृतिर्धर्मे प्रमाणम् । स्मृतीनामपि वैदिक मन्वा- दिमणौतानामनुमितवेदद्वारा प्रामाण्यमपि तदैव स्थात्, यदि ताः असम्भाव्यमानदृष्टहेतुकाः स्युः । लोभादिमूलका श्रपि हि स्मृतयो बहुलमुपलभ्यन्ते । " हेतुदर्शनाच "ति जैमिनिसूत्रमप्यत एवोप- पद्यते । “औदुम्बरी सर्वा वेष्टितव्येति स्मृतिरपौत एव व्याख्याता । न हि तत्रापि श्रुतिमूलतया प्रामाण्यमस्ति । तथाच का स्मृति प्रमाणम् ? का चाप्रमाणम् ? इति न व्यवस्थेत्या- प्रवाह- श्रुतीति । INESS FERUNT इयमच व्यवस्था - श्रुत्यविरुद्धा स्मृतिः प्रमाणम् । तद्विरुद्धा दृष्टनिमित्ता च स्मृतिर प्रमाणमिति । तथाच श्राद्धकर्तव्यता- स्मृतोनों वेदाविरुद्धानामनिमित्तान्तराणां च प्रमाणतैव वर्तत इति श्रौतमिव स्मार्तमपि कर्मानुष्ठेयमिति भावः । इदं च श्राद्धं पित्रादित्रयजोवने न कर्तव्यं किन्तु एकद्विधरण