पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । परिशिष्टप्रकाशः । मित्यर्थः । तथा च गोभिलः । “अन्वष्टक्यस्थालीपाकेन पिण्ड- पितृयज्ञो व्याख्यातः । अमावास्यायान्तच्छ्राइ डमितरदन्वाहायें मासोनम्” | वृद्धिवाहे च पितृणावादीमुख विशेषणविशिष्टानां देवतात्वम् । तथा विष्णुपुराणम् - [ १प्र. १ख. ] "कन्यापुत्र विवाहे च प्रवेशे नववेश्मनः । नामकम्मणि बालानां चूड़ाकर्मादिक तथा ॥ सौमन्तोनयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणमर्चयेत् प्रयतो ग्टही" || ब्रह्मपुराणम्- "कम्मे व्यथाभ्युदयिके मङ्गल्यवति शोभने । जन्मन्यथोपनयने विवाहे पुत्रकस्य च ॥ पितृवान्दोमुखाग्राम तर्पयेदिधिपूर्वकम्" । गोभिलेनापि, नान्दौमुखाः पितरः प्रौयन्तामिति देवे वाचयित्वा नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यःन प्रभा । इति । पितृभ्य इति पितृपदस्थ सम्बन्धिशब्दतया पदिन्यायात् यजमान पित्रादिपरिग्रहः । तेन यजमानपित्रादीनां, नतु,- “पिता पितामह चैव तथैव प्रपितामहः । वयो ह्यमुखा होते पितरः परिकीर्त्तिताः ॥

  • भविष्यपुराणे, इति ख पुस्तके पाठः ।

पिपितामह प्रपितामहेभ्यः इति व पुस्तके पाठः । ४