पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्स्यपुराणं च- " कर्मप्रदोषः । हो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहते यः स कालः कुतपः स्मृतः ॥ मध्याहे सर्वदा यस्मान्मन्दीभवति भास्करः । तस्मात्तदत्र फलदस्तत्रारम्भो विशिष्यते ॥” इति ॥ 22 - " एवं च वृद्धिश्राद्धे अचिरोदित सूर्यकालोऽपि न निषिद्ध इति भावः । ननु – “न रात्रौ " इति वाक्यं दर्शश्राद्धप्रकरणे वर्तते । एवंच कथं तेन सर्वेषामुक्तानां श्राद्धानां ग्रहणमित्या- शय परिहरति— यद्यपौति । ननु – एकोद्दिष्टादीनां मध्याहा- दिकाल विशेषनियमनात् रात्रिपदस्तकालमात्रविषयलं न संभ वति, किंतु यत्र तीर्थंश्राद्धादौ कालविशेषो न विचितस्तस्यैव राज्यादिपर्युदस्तकालकलमिति “न रात्रौ" इति वाक्ये तीर्थ- श्राद्धस्यैव ग्रहणं नैकोद्दिष्टादौनामपौत्याशयेनाशाय परिहरति- न चेति । विहिततिथौ मध्याहाद्यप्राप्तौ श्राद्धलोपापत्त्या प्रति- प्रतिसंवत्सरं च श्राद्धविधिबाघापत्त्या मध्याह्लादे: कालान्त- मुख्यकल्पानुकल्पभावेन व्यवस्थापनमपेचितमिति सर्वेषा- मेवात्र ग्रहणमिति समाधानयुक्तौराह- विहितेति । व्यवस्थेति । अपराक्षादिकालय मुख्यत्वं कालान्तरस्य च गौतम, इदान राज्यादिपर्युदस्तसर्व कालस्याऽपि मुख्यलमपरावादीनां प्रशस्तत्वमात्रमिति मनुवचन निर्देश पूर्वकमुताशंकां परिचरति- · अथवेति ॥ • मा र