पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १ ख. ]. • कम प्रदीपः । आयुष्याणि च शान्त्यर्थं नप्ता तब समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राहदानमुपक्रमेत् ॥ १२ ॥ परिशिष्टप्रकाशः । आयुवे हितानि अमङ्गलनाशाय जम्बा । तत्र कर्मादौ । मातृपूजावसुधाराऽऽयुष्यजपेभ्योऽनन्तरं पित्रादिभ्यो मातामहादि भ्यय विभ्यः श्रहादानमारमेत । एतच्च वृद्धिश्राई वैदिककम्मेवादी कर्त्तव्यम् । तदङ्गं च । तथाच शातातपः- “नानिष्वा तु पितॄन् याहे कर्म॑ वैदिकमारभेत्” । भविष्यपुराणञ्च - "निषेककाले सोमे च सौमन्तोन्नयने तथा । ज्ञेयं पुंसवने चैव या कर्माङ्गमेवच" ॥ एतच वैदिककमात्रोपलक्षणम् । फलवत्सविधावफलं प्रभा । प्रवृत्तत्वात् तसंबन्धिनोमित्येतत् तेन धारां कारयेत् कुयात् । स्वार्थिको णिच् ॥ ११ ॥ वसोर्धारायाः करणादनन्तरं कृत्यमाह आयुष्याणीति । आयु- प्याणि आयुषे हितानि आयुर्वृद्धिकराणि, आ नोभद्राः कतव- इत्यादिस्तानि इति मदनपारिजातः । तानि च तैत्तिरीय- शाखायां पव्यन्ते । शान्त्यर्थममङ्गलनाशार्थं समाहितोऽविक्षिप्त- चित्तः तत्र कमादौ जता, तदनु तदनन्तरं षड्भ्यः पितृभ्यः पित्रादिभ्यः विभ्यः मातामहादिभ्यच त्रिभ्यः श्राडदानमारभेत ।