पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १ख. ] कप्रदीपः । कर्मादिषु च सर्वेषु मातरः सगणाधिपाः । पूजनीया: प्रयत्नेन पूजिताः पूजयन्ति ताः ॥ ६ ॥ प्रतिमासु च शुभ्रासु लिखिता* वा पटादिषु । अपि वाऽचतपुञ्जेषु नैवेद्यैश्च पृथग्विधैः ॥ १० ॥ परिशिष्टप्रकाशः । अपरमपि साधारणं कर्माङ्गमाह - सर्व्ववैदिककम्मरम्भात्पूर्व्वं गणपतिसमेता गौर्ष्यादिमातरः प्रयत्नतो- भक्तिवद्धाभ्यां पूजयितव्याः । पूजाफलमाह | ताः पूजिताः पूजाकर्त्तारमभ्युदयसम्पादनेन प्रोषयन्ति ॥ ८ ॥ पूजास्थानानि तदुपकरणानि चाह प्रतिकृतिषु शुभ्रास रजतस्फटिकादिमयीषु । शहाखिति पाठे- प्रभा । न केवलं हड़ौ, किन्तर्हि, कम्मादिषु चेति । सर्वेषु च कम्मादिषु गणाधिपसहिता गौय्यादिमातरः प्रयत्नेन भक्तिवहातिथ्येन पूजनीया: । पूजितास्ता मातरः पूजयितारं पूजयन्ति अभ्युदय सम्पादनेन प्रोणयन्ति यतः, अतः पूजनीया इति पूजाफलवादः । सव्र्वेष्वित्यस्यापवादो वक्ष्यते । तदनेन, सर्व्वास्येवान्वा हायवन्तीति गोभिलसूत्रेण कम्मादौ यदन्वाहाव्यवाहमुक्तं तन्माटपूजादिपूर्व्वकं करणीयमिति स्पष्टीक्कृतम् ॥ ८ ॥ पूजायां विशेषमाह प्रतिमाखिति । शुभ्भ्रास स्फटिक-

  • लिखित्वा - इति पाठान्तरम् ।