पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमप्रदीपः । वेदमेव जपेन्नित्यं यथाकालमतन्द्रितः । तं ह्यस्याहुः परं धर्ममुपध मेऽन्य उच्चते ॥ वेदाभ्यासेन सततं दानेन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकम् ॥ संस्मरन् पूर्वजातिं च ब्रह्मैवापद्यते जनः ॥ ब्रह्माभ्यासेनाजसमनन्तं फलान्तरमाह- ऋचः पठन् मधुपयःकुल्याभिस्तर्पयेत् सुरान् । ताता द्यकुल्याभिर्यजुषा पठने सदा ॥ कुल्या भल्या नदौश्चैव ऋचमेषा हि च स्तुतिः ॥ प्रकाशकाराशयः । वच्चति चोपसंहारे- “ततस्राध्यापनात्मक- बहायज्ञो मुख्यस्तदभावे जपः" इति । तत्र व मुख्याधिकारिणां दोलभ्यात् गौणस्यैव प्रथमतो विधिरन क्रियत इति भावः ॥ अस्य च ब्रह्मयजस्व नयः कालाः- स चार्काक् तर्पणात् कार्य: पञ्चादा प्रातरातेः । वैश्वदेवावमाने वा नाऽन्यचेति निमित्तकात् ॥ इति कात्यायनवचनेनावगम्यन्ते । तत्र यदि ब्रह्मयज्ञस्य तर्पणात् प्रागेवानुष्ठानं विवचितम्, तर्हि न कालत्रयं निरूपितं भवति । एवं च- 'पश्चादा वैश्वदेवावसाने वा" इति वा शब्दप्रयोगोऽपि बाधितो भक्तौति द्वितीयादिकाल सार्थमेवमन व्यवस्था कात्या- (१) यजुष्षु पढनु (या)। 66