पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

5 कर्म प्रदीपः | अथ ब्रह्मयज्ञप्रकरणम् । न ब्रह्मयज्ञादधिकोऽस्ति यज्ञो न तत्प्रदानात् परमस्ति दानम् । सर्वेऽन्तवन्तः कतवः सदाना नान्तो दृष्टः कैश्चिदस्य इयस्य | १८ ब्रह्मयज्ञात् जपरूपात् श्रेष्ठो यज्ञो नास्ति । ब्रह्मदानात् अध्यापनरूपात न श्रेष्ठदानमस्ति । हेतुमाह - सर्वे क्रतवः सर्वाणि • दानानि विनाभवन्ति विनाशिस्वर्गादिरूपफलवन्तीत्यर्थः । · तु दयस्य ब्रह्मदानजपरूपस्य केचिदपि न विनाशः सम्मन इत्यर्थः । अत्राप्यविनाशित्वमविनागमोचफललात्। तथाच मनु:- सार्ष्टितामिति । तथाच- ब्रह्म- ब्रह्मयज्ञात् जपरूपादिति । यद्यपि ब्रह्मयज्जशब्दः “ अध्यापनं ब्रह्मयज्ञः ” इत्यादिवचनात् ब्रह्ममदानपर एव; तथाऽपि गौष्या श्रुतिजयोऽपि ब्रह्मयज्ञपदबोध्य एव । तदुक्तम्- "बेदमादित प्रारम्य शक्तिोऽहरहर्जपेत् । यश्च श्रुतिजप: मोक्को ब्रह्मयज्ञः स उच्चते" ॥ इति ॥ भट्टभाष्ये- 'रारावध्ययनं कुर्वन् शुश्रूषादि यदाचरेत् । स सर्वो ब्रह्मयज्ञः स्थात् तत्तपः परमुच्यते ॥” इति गुरुसकाशादध्ययनमपि ब्रह्मयज्ञ इति वर्णितम् । तथा "मुख्यो ब्रह्मयज्ञोऽध्यापनं गौणमितरत्" इति परिशिष्ट-