पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । सौभाग्यं कर्मसिद्धिं च कुलज्यैष्यं स्वकर्तृताम् । सर्वमेतत् सर्वसाचिन् द्रविणोदो विधेहि नः ॥ यशः ख्यातिः, तेजो टस्थता, वर्चः शरीरकान्तिः बीजं धान्या दिर्घात विशेषो वा ब्रह्म वेदः, ब्राह्मण्यं ब्राह्मणकर्म स्वकर्तृता निर्विघ्नकर्टता ॥ इति वैश्वदेवप्रकरणम् ॥ गौतमोक्तस्य विशेषस्य निर्देशन प्रत्यासत्त्या बत्तोनामपि तदुक्तानामेव ग्रहणं भवतीति न ग्टह्योक्तानां बलौनामनाहिताम्मिविषयलम् तेषां तु ग्टह्योक्तहोमानामिवाऽहिताग्निविषयत्वमेवेति विवेचयन्ति परिशिष्टप्रकाशकाराः– आहिताग्नेश्चेति । चस्वर्थः । स्पृष्ट्वाऽपो वीक्षमाणोऽग्निमिति । ततः काम्यबलिहरणानन्तरम् ॥ वैश्वदेवोऽनसंस्कारार्थी वा बतादृष्टार्थी वोति विषये विस्तरेण गोभिलभाष्ये तर्कालङ्कार महाशयैस्तस्यादृष्टार्थत्वं साधितम् । एवं च हविश्शेषग्यैव नेयं प्रतिपत्तिरिति मियतौति पूर्वमेव निरूपितमुद्धृत्य पदस्वारस्यादिनेति सर्वमनवद्यम् || इति वैश्वदेवप्रकरणम् ।