पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोषः । परंतु नित्यविशेषविहितयोरन्ते सामान्यकाम्ये कर्तव्ये, मध्ये तु न कदाचन कर्तव्ये । अत्र हेतुमाह - नैकस्मिन् कर्मणौति । निगदव्याख्यातम्। अत एव “सदा भोजनस्योपनौतस्ये”ति श्रुत्युक्त काम्यहोमे बलिं चोत्तरेणेत्यन्त एवोक्रम् ॥ काम्यमित्यनेन सामान्य काम्ययोनत्रश्यकता (काम्यस्ख) किंतु करणेऽभ्युयोऽकरणे प्रत्यवाया- भाव इति गम्यते । अत एव ग्टह्यान्तरम्- स्वयमेव हरेत् काम्यान् बलौन् ग्रावद्गृहे वसेत् । आतुरत्वे प्रवासे च न ( तद्गृहबलिर्भवेत् ” ॥ इति ॥ इति लिखद्भिरग्न्यादिहोमस्यानाहिताग्निविषयत्व इत्यन्याधि- कारिकाणामन्यच समुच्चयप्रसङ्ग एव नास्तौति सर्वविदितमिदम् । तदेतत् मवें मनसि निधायाह-काम्यमित्य ने नेति । काम्य- स्थेति ॥ यद्यपि माटकायां सामान्यकाम्ययोर्नावश्यक तेत्येव पाठो दृश्यते ; तथाऽपि - अतएव ग्टह्यान्तरम्- 2 “स्वयमेव हरेत् काम्यान बलौन् यावद्गृहे वसेत्” इति खोक्रार्थोपटायें काम्यमाचविषयवचनोपन्यामात् काम्य- पदेन काम्यस्येव सामान्यस्थानावश्यकता गमकताऽभावाच काम्यस्येति पाठ एवात्र समुचितः प्रतिभाति ॥ अग्न्यादितमेनोक्त इति । अत्र च मौजबलिसहिता- न्यादिहोमः पौराणबलिसहितशाकलहोमः सर्वबलिसहितहोम- (१) च लोपो ग्टहबलेरिति पाठान्तरम्