पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १ख. .] कप्रदीपः । यत्र दिनियमो नास्ति जपहोमादिकर्मसु । तिसस्तन दिशः प्रोक्ता ऐन्द्री सौम्याऽपराजिताः ॥७॥ आसीन ऊ: प्रो वा नियमो यत्र नेहशः | तदासोनेन कर्त्तव्यं न प्रद्धेन न तिष्ठता ॥ ८ ॥ परिशिष्टप्रकाशः | १६ अपरमपि साधारणमङ्गमाह - यत्र जपादिकमत, तेषु कर्मसु दिग्विशेषमुख तानियमो- नोतः, तत्र पूर्व्वा उत्तरा ऐशानीति तिस्रो दिशो मुनिभि रुक्ताः ॥ ७ ॥ यत्र उपविष्ट उत्थितोऽवनतपूर्व्वकायः कुर्य्यादित्येतादृशो- नियमो नास्ति तत्कर्मोपविष्टेन कर्त्तव्यम् । नापद्यपि प्रद्धेव उत्थितेन कर्त्तव्यमित्वर्थः ॥ ८ ॥ प्रभा । अपरमपि साधारणमङ्गमाह - यत्र दिनियमो नास्तीति । यत्र कर्मणि दिनियमो नास्ति कर्तुर्दिग्विशेषमुखता नोक्ता, तत्रेन्द्री सौम्याऽपराजिता स्त्रिस्रोदिशो मुनिभिः प्रोक्ताः । ज्ञेया इति पाठे ज्ञातव्या- इत्यर्थः । तयाचैतासां दिशामन्यतम दिङ्मुखता कर्तुर्बोहव्या | ऐन्द्री प्राची, सौम्या उत्तरा, अपराजिता ऐशानी । तथाच ह्यासंग्रह:-