पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदोपः । पाठे प्रमाणपदं मन्त्रपरम् | हेवन्तरमाह- स्वाहाकार वषट्कार इन्तकारा दिवौकसाम् । झोको मन्त्राकारसमपेकः, किं तु बलिदाने नमशब्दप्रयोग- नियमनार्थः । अत एव —“नमस्कारः कृतो यतः” इत्यत्तरार्ध- सुपपद्यते । तत्र नमशब्दः चतुर्थन्तपद्समवहित एव प्रयुज्यमानो निराकाङ्क्षो भवतीति “अमुमै” इति पदस्याऽप्यचोपादान ग्रन्थकारेण कृतं, न तु पूर्वं चतुर्थन्तपदप्रयोगावश्यकता सूचनार्थम् । तथाचाच नमःपदस्य पूर्वं वा निवेशो युक्त उत उत परमिति निर्णयो बैकृतवचनानुसारेणेव भवति ॥ श्रयं भावः- नमस्कारः कृतो यतः” इति वाक्यं हि विकृतौ बलिदाने सूत्रकारेण नमशशब्द प्रयोगात् प्रकृतावपि नमशशब्द एव प्रयोक्तव्य इत्येतदर्थपरमिति तर्कालङ्कारमहाशया- नामपि संमतम् | एवंच वैकृतवचनेन नमशशब्द प्रयोगविषये व्यवस्था क्रियमाण तत्रेवाचाऽपि तस्य पूर्वप्रयोग एवोपपद्यत इति तर्कालङ्कारमहाशयानां प्रकाश खण्डनयुक्तौनां नावकाश इति सूचयितुं " नमस्कार कृतो यतः " इत्येतत् वास्तुबलावित्यादि- पूरणेन व्याटे- वास्तुवला विति । विकृताविति शेषः ॥ " अच बलिदानप्रदानार्थं वलिदानप्रमाणार्थमिति पाठद्वयं वर्तते । तत्र च प्रथम एवं पाठ उत्तमः । यतो “नमस्कार: कृतो यत: " इत्यनेनान्वयः खरमं तत्रैव भवति । स्वाहास्वधा- हन्तकारादयो हि दानार्थमेव प्रयुज्यन्ते न मन्त्रायें इत्यभि- "