पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । अमुझे नम इत्येवं बलिदानं विधीयते । बलिदानप्रदानार्थं नमस्कारः कृतो यतः ॥ ११ ॥ [ २५. श्खः ] परिशिष्टप्रकाशः । यप्रथमं निदधाति स पार्थिवी बलिर्भवति, अथ यहितोयं स. वायव्यो यत्तृतीयं स वैश्वदेव इत्यादिना सूत्रेण तत्तद्देवतोदेशेन बलिदानमुक्तम् । मन्त्रस्तु नोतस्तमाह | अमुष्मै इत्यनेन पृथिव्यादीनामुपादानम् । तेन पृथिव्यै नम प्रभा । यत् प्रथमं निदधाति स पार्थिवो बलिर्भवति इत्यादिना गोभिलेन बलिदेवता उत्ता: बलिम वस्तु नोक्तः, तसाह मुझे इत्यादि । अमुष्मै नम इत्येवं प्रकारेण बलिदानं क्रियते । नमस्कारेण बलिदानकरणे हेतुमाह बलिदानेति। दानपदं कदाभिहित- भावतया दोयमानपरम् । तथाच वस्मात् दीयमान बलिप्रदानार्थं नमस्कारः कृतः, तस्मात् अमुष नम इत्येवं प्रकारेण बलिदानं क्रियते इति समुदितार्थः । प्रदीयते अनेनेति प्रदानं मन्त्र इति तत्त्वकाराः | प्रमाणार्थमिति पाठे प्रमाणपदं मन्चपैरमिति, नारायणोपाध्यायाः । तदव, अमुष्मै इति देवतानिर्देश: । स्मरन्ति च । “अदः पदं हि यद्रूपं यत्र मन्त्रे हि दृश्यते । साध्याभिधानं तद्रूपं तत्र स्थाने नियोजयेत्” ॥