पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । [ २प्र. ३ख. ] मुनिभिर्दिरशनं प्रोक्तं विप्राणां मर्त्यवासिनान्नित्यम् । अहनि च तथा तमखिन्यां साईप्रथमयामान्तः ॥६॥ १८६ परिशिष्टप्रकाश: । सनकादिमनुष्यानुद्दिश्यातिथिभोजनं यदुक्तम्, तत् “दिवातिथौ तु विमुखे गते यत् पातकं नृणाम् | तदेवाष्टगुणं प्रोक्तं* सूर्यास्ते विमुखे गते ॥ अप्रणोद्योऽतिथिः सायं सूर्यास्त्रे गृहमेधिनाम् । काले प्राप्तस्त्वकाले वा नास्थानश्नन् गृहे वसेत्” ॥ इति विष्णुपुराणमनुवचनाभ्यां सायमप्यतिथिभोजनोपदेशात् सनकादिमनुष्यानुद्दिश्य कर्त्तव्यम् । न तु ननु, प्रभा । S " सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् । नान्तरा भोजनं कार्य्यमग्निहोत्रसमो विधिः" || इति बृहन्मनुवचने मनुष्याणां सायंप्रातरशनोपदेशात् सनका: दीनामपि मनुष्यत्वात् रातावपि तदशनायें मनुष्यवाई कर्त्तव्यं भवति । अतएव, “अप्रणोद्योऽतिथिः सायं सूर्यास्ते हमेधिनाम् । काले प्राप्तस्वकाले वा नास्यानश्नन् गृहे वसेत्” ॥ क्रं साईमहरयामान्तः इति पाडान्तरम् । + मुंसां - इति पाठान्तरम् ।