पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । [ २म. ३ख. ] पितृभ्य इदमित्युक्ता खधाकारमुदीरयेत् । हन्तकार मनुष्येभ्यस्तदन्ते निनयेदपः ॥ ८ ॥ परिशिष्ट प्रकाश: । "भिक्षां वा पुष्कलं वापि हन्तकारमथापि वा । असम्भवे सदा दद्यादुदपात्रमथापि वा ॥ ग्रासमात्रा भवेशिक्षा पुष्कलं तु चतुर्गुणम् । पुष्कलानि तु चत्वारि हन्तकारं विदुर्बुधा : " ॥ इति । विष्णुपुराणञ्च - “दद्याञ्च भिक्षावितयं परिव्राइब्रह्मचारिणे । इच्छया च नरो दयादिभवे सत्यवारितम् ॥ इत्येतेऽतिथयः प्रोक्ता: प्रागुक्ता भिक्षवच ये । चतुरः पूजयेनेतान् तृयज्ञर्णात् प्रमुच्यते" || इति । दद्याच्चेति चकार: पूर्वोक्तातिथिभोजनेन समुच्चयार्थः । सच सम्भवे सति । असम्भवे तु भिक्षादानमात्रमेव शातातप- वचनादिति ॥ ६ ॥ ७ ॥ यथाविधीति पूर्व्वमुक्तं विधिमाह | पितृभ्य इदमित्युक्त्वा प्रभा । नुद्दिश्य यथाविधि प्रत्यहं ब्राह्मणे दद्यात् । अस्मादवगम्यते सनका- दीनामपि नित्यवादमस्तीति । स्मरन्ति च । “नित्यत्रामदैवं स्यान्मनुष्यैः सह गीयते" | इति ॥ ७ ॥ यथाविधीत्युक्तम् । तमेव विधिमाह पितृभ्य इति । तदन्ते