पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । परिशिष्टप्रकाशः | यदि त्वप्येकोऽप्यन्यस्तदेश्यो नास्ति श्राइभोक्ता, भोज्यं वा ब्राह्मणहप्तवे पर्याप्तनास्ति, तदा स्थात्या अवमुहृत्य पितृभ्यो- मनुष्येभ्यय सनकादिभ्योऽतिथिद्विजे दयात् । उभयोः बाहं कुर्य्यादित्यर्थः । एतेन मनुष्याणां नित्यवाई नास्तीति महार्णव प्रकाशोतं निरस्त॒म् । अतएव कार्णाजिनः । [ २ प्र. ३ख ] "दमांश्चैवासने दयान तु पाणौ कदाचन । पितृदेवमनुष्याणामेवं तृप्तिर्हि शाखती” | "नित्यत्राई पितॄणां च मनुष्यैः सह गोयते" | इति ब्रह्मपुराणम् | तथाच गृह्यान्तरम् । आलीयामभीष्टां देवतामुद्दिश्य प्रामुखमतिथिं भोजयेत् मनुष्यार्थे इति। मनुष्य- या ब्राह्मणस्य प्रामुखले यजमानस्य श्राइभोक्लब्राह्मण- सम्मुखावस्थानस्य श्रौत्सर्गिकत्वात् न्यायप्राप्तमेव पश्चिमाभि- मुखत्वम् । तथाच सामवेदीयषड् विंशब्राह्मणम् | मनुष्याणां वा एषा दिक् या प्रतीचोति । तथा ज्योतिष्टोमे श्रूयते। प्राच देवा अभजन्त दक्षिणां पितरः प्रतीचीं मनुष्या: उदीचीं असुरा: अपरेषामुदीचीं मनुष्या इति । अतिष्यभावे भोज्यासम्भवे वा भिक्षादिकं दद्यात् । तेनापि पिटयज्ञनिष्पत्तिर्भवति । तथाच शातातपः । 1 प्रभा । यथाशक्ति किञ्चिदम्यनमुहृत्य पितॄन् मनुष्यांश्च दिव्यान् सनकादी-