पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ २म. ३ख ] ● प्रभा । “आसवने तु संगाप्ते तर्पणं तदनन्तरम् । गायत्रीञ्च जपेत् पश्चात् स्वाध्यायञ्चैव शक्तितः ॥ आप्नवने तु संप्राप्ते गायत्री जपतः पुरा । तर्पणं कुर्व्वतः पश्चात् स्नानमेव वृथा भवेत्” ॥ सदत्र आप्लवने त्वित्युपक्रसात् स्नानमेव वृथा भवेदिव्युपसंहाराच खानाङ्गतर्पणादनन्तरमेव गायत्रीजपो ब्रह्मयश्चेति शिष्यते । तस्मात् स्रानाङ्गं तर्पणं ब्रह्मयज्ञात् पूवें, पितृयज्ञरूपं प्रधान- तर्पणन्तु ब्रह्मयज्ञात् परं करणीयमित्यविरोधः । एतेनैतद्विषय- भेदमपर्थ्यालोचयता नारायणोपाध्यायेन तत्त्वकारेण च ब्रह्मयज्ञा- दनन्तरं तर्पणं वाजसनेयिनामिति यदुक्तं तदसङ्गतं वेदितव्यम् । छन्दोगपरिशिष्टस्य च्छन्दोगेतरपरत्वकल्पनस्थान्याय्यत्वाच्च । यच्चा- परमुक्तं तत्त्वकारेण, स्नानाङ्गतर्पणं प्रधानतर्पणस्य प्रकृतीभूत्तम् । तेन तस्यापि स्नानाङ्गतर्पणकालतैवेति । तदप्ययुक्तम् । इयो : सपरिकराभिहितयोः प्रक्कृतिविकारभावकल्पनानुपपत्तेः । स चार्वाक् तर्पणात् कार्य इति कालविधानेन कालान्तरकल्पना- नुपपत्तेव । विस्तरेण चैतत् सर्वं गृह्यसूत्रभाष्ये विचारितम- स्माभिस्तत्रैव तत् द्रष्टव्यम् । अव तावत् श्रुतिजपरूपी ब्रह्मयज्ञ- स्तर्पणादवक् काव्ये इत्युक्तम् । खानयन्ये तु स्नानाङ्गतर्पणात् परतः सामजपरूपी ब्रह्मयज्ञ उक्त इति कस्य केनाभिसंबन्ध इत्य- प्यनुसन्धेयम् ॥ ५ ॥