पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । परिशिष्ट प्रकाशः । इत्यर्थः । इति कालरूपनिमित्तत्रितयं विना न ब्रह्मयज्ञः कार्य: । अव च कालोपदेशादेव नियमे सिद्धे यत् नान्यत्रेति नियमाभिधानं, तस्यायमभिप्रायः | ब्रह्मयज्ञस्य नित्यत्वात् कालस्य च तदङ्गत्वात् नित्ये च किञ्चित्त्यागेनाप्यनुष्ठानात् अनियमे प्राप्ते निमित्तत्वेन कालस्याधिकारि विशेषणत्वादितराङ्ग- वेलचण्यात् तदातिरेकेणानधिकारप्रत्यभिज्ञानाव नित्यप्रयोगाक्षेप- इति ॥ ५ ॥ [ २प्र. ३ख. ] प्रभा । वेदखोकरणं पूवं विचारोऽभ्यसनं जपः । तद्दानञ्चैव शिष्येभ्यः वेदाभ्यासो हि पञ्चधा" || इति । अब किञ्चिवक्तव्यमस्ति । पितृयज्ञस्तु तर्पणमिति स्त्रोक्तमेव तर्पणं गृह्यते इत्युक्तमादावेव । स चार्वाक् तर्पणात् कार्य इत्यत्रापि स्वोक्तस्यैव पितृयज्ञरूपस्य तर्पणस्य परिग्रहः । प्रकृतप्रत्ययश्च न्याय्य इति शास्त्रतात्पर्य्यविदां वचनात् । सन्निहित बुद्धिरन्तरङ्गेति न्यायात् | आग्नेयोन्यायाच | ब्रह्मयज्ञादिसाह- यर्थ्याच्चैतदेवं प्रतिपत्तव्यम् । तच्चैतदन्याहशमेव तर्पणं प्रधानं पितृयज्ञरूपं ब्रह्मयज्ञानन्तरं कर्त्तव्यमत्त्रोक्तम् । वानग्रन्थे वन्यादृशमेव तर्पणं खानाङ्गं सूर्योपस्थानादनन्तरं करणीयमुक्तम् | तदनन्तरं गायत्रीजपो ब्रह्मयज्ञश्च तत्रोक्तः । उभयत्रैव प्रकरणात् प्राधान्य मङ्गत्वञ्च तर्पणस्य प्रतिपत्तव्यम् । तथा खानसूत्रपरि शिष्टम् ।