पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

E [ २म. श्ख. ] प १७५ देवभूतपितृब्रह्ममन्युष्याणामनुक्रमात् । महासत्राणि जानीयात्तएव हि महामखाः ॥ २ ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमोदैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ ३॥ परिशिष्ट प्रकाशः | पञ्चानां देवतामाह - अनुक्रमाइच्यमाणानि । तएव महामखा इति संज्ञाविधिपरम् । शेषं निगदव्याख्यातम् ॥ २ ॥ अध्यापनं ब्रह्मदैवतो यज्ञः । एवं पितृयज्ञादावपि बोद्धव्यम् । देवो भौत इति साऽस्य देवतेत्यनेन विहितो देवतातद्धितः ॥ ३ ॥ प्रभा । देवभूतेति । अनुक्रमाद्दश्यमाणानि महासत्राणि देवादीनां जानीयात् । यानि महासत्राणि तएव महामखा महायज्ञाः । विधेयप्राधान्यविवक्षया पुंसा निर्देश: । तथाच देवयज्ञ: भूतयज्ञः पिढयो ब्रह्मयज्ञो मनुष्ययज्ञयेति पञ्चयज्ञा भवन्ति ॥ २ ॥ तानेव पञ्चयज्ञान् विवृणोति अध्यापनमिति । देवोभौत इति देवतार्थे तद्धितः । निगदव्याख्यातमन्यत् । पितृयज्ञस्तु तर्पणमिति तर्पणपदेन सन्निहितं खोतं तर्पणं परामृष्यते । व्यक्तिवचनानां सत्रिहितव्यक्तिपरत्वस्य आग्नेयोन्याये सिद्धान्तितत्वात् । स्त्रोक्तं तर्पणमुपेक्ष्य परोक्ततर्पणपरिग्रहस्थान्याय्यत्वाच ॥ ३ ॥