पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः । पञ्चानामथ सत्राणां महतामुच्यते विधिः । यैरिट्वा सततं विप्रः प्राप्नुयात् सद्म शाश्वतम् ॥१॥ परिशिष्टप्रकाश: । सर्तणान्तस्त्रानानन्तरं क्रमप्राप्तान् पञ्चयज्ञानाह- अथ स्नानानन्तरं पञ्चानां महायज्ञानामनुष्ठानमुच्यते । यैर्देवादीन् सततं विप्रः पूजयित्वा स्थिरं स्थानं ब्रह्मलोकात्मकं प्राप्नोति । तथा ब्रह्मपुराणे | " प्राजापत्यं ब्राह्मणानां कृतं स्थानं क्रियावताम्” । इति । नित्ये चानुषङ्गिफलमस्तीत्युक्तं भविष्यपुराणे । "नित्यक्रियां तथा चान्येऽनुषङ्गफलां श्रुतिम् ” । इति ॥ १ ॥ प्रभा । पञ्चानामिति । अथेदानीं पञ्चानां महतां सत्राणां विधि- रुच्यते यैः सवैः सततमिया ब्राह्मण: भाखतं स्थानं प्राप्नोति । सारन्ति च, "प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं कियावताम्" । इति ॥ १ ॥