पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमप्रदोषः । [ २प्र. ३ख. ] श्राद्धं वा पितृयज्ञः स्थापितग्रो बलिरथापि वा । यश्च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञः स उच्चते ॥ ४ ॥ परिशिष्टमकाशः | श्राद्धं नित्यम् । एतेन त्रयाणां पिटयज्ञत्वादसम्भवे एकेनापि कृतेन पितृयज्ञक्रियानिष्पत्तेः प्रत्यवाय: परिहृतो भवति । तथाच मनु:- “यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा हिजोत्तमः । तेनैव सर्वमाप्नोति पितृयज्ञक्रियाफलम्" || समुच्चयेन तु त्रयाणामुपदेशः सम्भवे बोडव्यः । यच पूर्व्वं वेदमा- दित भारभ्य इत्यनेन तिजप उक्तः, सोऽपि ब्रह्मयज्ञ उच्चते । पूर्वं तस्य ब्रह्मयज्ञ इति संज्ञा नोक्ता, सैवेदानीं विधीयते । एतेन दौ ब्रह्मयज्ञावित्युकं भवति । अत्रापि सम्भवासम्भवाभ्यां विकल्प- समुच्चयौ पिटयज्ञवद्रष्टव्यौ । भट्टभाष्ये तु- "गुरावध्ययनं कुर्व्वन् शुश्रूषादि यदाचरेत् । स सर्वो ब्रह्मयज्ञः स्यात्तत्तपः परमुच्यते" ॥ इति वचनाद्रहणार्याध्ययनमपि ब्रह्मयज्ञ इत्युक्तम् ॥ ४ ॥ प्रभा । श्राद्धं वेति । याचं नित्यत्राहम् । पित्रग्रो बलिरिति । योऽयं बलिकमणि पित्रो बलिर्दीयते स वा पितृयज्ञ: स्यात् । तदेवं छन्दोगानां स्वशास्त्रोपदिष्टस्त्रिविधः पितृयज्ञो भवति, याचं तर्पणं पितरोबलिबेति। तदव कस्याच्चिदवस्थायां अमोषां एकेनापि