पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ कप्रदीपः । परिशिष्ट प्रकाशः । " स्नानमन्तर्जले चैव मार्जनाचमने तथा । जलाभिमन्त्रणं चैव तीर्थस्य परिकल्पनम् || अघमर्षणसूक्तेन चिरावृत्तेन नित्यशः । नानाचरणमित्येतत् समुद्दिष्टं महामभिः ” ॥ [ २प्र. २ख ] हेतुमाह | होमकालस्याल्पत्वात् स्नानकर्मणो बहुत्वात् विस्तारे होमकालातिक्रमात् यस्माडीमलीपो भवेत् स च गर्हितः, प्रातःकाले तस्माडोमार्थं संक्षेपं कुर्य्यात् । नु प्रातः कर्त्तव्यं होमस्त दितहोमिनामुदयानन्तर मिति नानविस्तारेऽपि न होमकालातिक्रमः | तस्मादनुदितहोमविषयमेवेदं वचनमिति युक्तम् । नेवं, उदितहोमिनामप्युदयात्पूर्व्वमग्निवितरणं विहि- तम् । तथाच गोभिलः । पुरोदयाप्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतिं जुहुयादिति । तथा हस्तादूई रविर्यावदित्यने- नाप एवं होमकाल उक्त: । विस्तरेण च नद्यादौ स्रानं विहितम् । ततथ स्नानविस्तरेण नद्यादित आगमनेन च सर्व्वमिदं लुप्येदिति तस्यापि नानसंक्षेपः । एवं "पूर्व्व सन्ध्यां सनचवामुपक्रम्य यथाविधि | गायत्रीमभ्यसेत्तावद्यावदादित्यदर्शनम् || प्रभा । बहुत्वात् प्रातःस्रानं न विस्तारयेत् । स्नानस्य विस्तारे हि होम- कालात्ययात् होमलोप: स्यात् । स च विशेषेण निन्दितः । तदव