पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । [ २प्र. २ख ] यंवाद्भिस्तर्पयेद्देवान् सतिलाभिः पितृनघ । नामान्ते तर्पयामीति आदावोमिति च ब्रुवन् ॥ २ ॥ परिशिष्टप्रकाशः । अनन्तरं च तर्पणं क्रमप्राप्तमाह | अयञ्च क्रमो गोभिलीय- व्यतिरिक्तानां वाजसनेयिप्रभृतीनां, गोभिलीयानां तु तर्पणोत्तर- मेव जपयज्ञविधानम् । अतएव गोभिलेन नमो ब्रह्मण इत्युपजाय चेत्येवमन्तेनाग्निस्तृप्यतु इति च देवांस्तर्पयेदपसव्येन पाणिना • राणायनी शटी कष्यवालादयो दिव्या यमांश्चाथामीयांस्त्रीन् पिटतः लोन् मातृतः त्रोन् पत्नाश्च पितृतर्पणं सनकादयश्च निवीत मिति मनुष्यधम्म इति तर्पणमुक्का, उपस्थानं गायत्राष्टशतादीन् • कृत्वा इत्यादिना यथाशक्त्यहरहर्ब्रह्मयज्ञ इति गोभिलीय इत्यन्तेन तर्पणानन्तरं ब्रह्मयज्ञ उक्तः । गोभिलीयेनापि । “आसवने तु संप्राप्ते तर्पणं तदनन्तरम् । गायत्रीं च जपेत्पश्चात्स्वाध्यायं चैव व्यक्तित:” ॥ प्रभा । अथ तर्पणमाह यवाद्भिरिति । यवसहिता आपो यवाप- इति मध्यपदलोपी समासः | यवसहिताभिरद्भिर्देवान्, तिल- सहिताभिरद्भिः पितॄन् तर्पयेत् । तर्पणवाक्यमाह नामान्ते इति । तपंथीयानां नाम्रोऽन्ते तर्पयामीति आदौ च श्रमिति ब्रुवन् तर्पयेत् । एवश्च ॐ ब्रह्माणं तर्पयामीत्यादिरूपं तर्पणवाक्यमुक्त भवति ॥ २ ॥ सतिलाद्भिः पितॄनपि, इति स्व पुस्तके पाठः ।