पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ द्वितीयः खण्डः । वेदमादित आरभ्य शक्तितोऽहरहर्ज्जपेत् । उपतिष्ठेत्ततो रुद्रमर्वाग्वा वैदिकाज्जपात् ॥ १ ॥ परिशिष्ट प्रकाशः । स्नानस्तुत्या यथाहनि तथा प्रातरित्यभिधानाच स्नानकर्त्तव्यता सूचिता, तदनन्तरं च स्मृत्यन्तरपथलोचनया मध्ये त्वन उदये च एतत्सन्ध्यात्रयं प्रोक्तमित्यनेन च सध्योक्ता, तदनन्तरं क्रमप्राप्तं जपयज्ञमाह - ऋगादिरूपं वेदं प्रथमकाण्डिकाया आरभ्य अध्यायं तददिरूपं यथाशक्ति प्रत्यक्षं जपेत् । ततो रुद्रमन्त्रै रुद्रं प्रकाशयेत् । उपपूर्बा- त्तिष्ठतेः प्रकाशनार्थत्वात् । उपान्मन्त्रकरणे इत्यनेन स्त्रेणात्मनेपद- विधानात्। जपयज्ञात्पूर्व वा रुद्रमुपतिष्ठेत । रुद्रोपस्थानमन्त्रय, "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण पिङ्गलम् । ऊईलिङ्गं विरूपाक्षं विश्वरूपं नमो नमः" ॥ १ ॥ प्रभा । अवेदानीं जपयज्ञमाह वेदमिति । आदित आरभ्य प्रत्यहं यथाशक्ति वेदं जपेत् । वेदजपादनन्तरं पूर्व्यं वा रुद्रमुपतिष्ठेत । रुद्रोपस्थाने च, — - "ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊईलिङ्गं विरूपाक्षं विश्वरूपं नमो नमः ॥ इति सम्प्रदायागतो मन्त्रः ॥ १ ॥