पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ २प्र. १ख. ] सन्ध्यालोपस्य चाकर्ता* स्नानशीलश्च यः सदा । तं दोषानोपसर्पन्ति वैनतेयमिवोरगाः ॥ १६ ॥ प्रथमः खण्डः । स्रानं सन्ध्यां च स्तौति- निगदव्याख्यातम् ॥ १६ ॥ प्रथमः खण्डः। प्रभा । सन्ध्यालोपादिति । चकित: भीतः । सन्ध्यालोपस्य चा कर्त्ता, - इति पाठे व्यक्तोऽर्थः । गरुत्वन्तं - गरुड़म् । उरगा: सर्पाः । अतिरोहितार्थमन्यत् ॥ १६ ॥ इति प्रथमः खण्डः । सन्ध्यालोपाञ्च चकितः, इति पाठान्तरम् ।