पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । एतत्सन्ध्यात्रयं प्रोक्तं ब्राह्मएवं यव तिष्ठति । यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्चते ॥ १५ ॥ [ २प्र. १ख. ] परिशिष्टप्रकाशः । एतत् सध्यावयं कार्सेनोक्तं यदवीनं ब्राह्मण्यम्। शेषं निगदव्याख्यातम् ॥ १५ ॥ प्रभा । “प्रणवं पूर्ध्वमुञ्चाव्यं भूर्भुवस्वस्ततः परम् । गायत्री प्रणवश्चान्ते जपएवमुदाहृतः" ॥ इति योगियाज्ञवल्कावचनं गोभिलीयव्यतिरिक्त विषयम् । "प्रणवो भूर्भुवः स्वञ्च सावित्री च तृतीयिका" । इति पूर्व्वमभिधानादव च पूर्व्वत्रिकमित्युक्तत्वाद् गोभिलौयाना- मन्ते प्रणवकल्पनानुपपत्तेः । न चान्ते प्रणवप्रयोगपि प्रणवत्वेन इयोरेक्याविरुद्धमिति तत्त्वकारोक्तं युक्तमिति वाच्यम् । अन्ते प्रणवस्य पूर्व्वमनुतत्वेन पूर्व्वत्रिक मित्यनुपपत्तेः । तावतापि व्यक्तौनां चतुष्कतया विरोधस्यापरिहाराच्च । पूर्व्वत्रिक मित्यनेन हि पूर्वोतं व्यक्तित्रयमेवोक्तमिति ध्येयम् । सन्ध्यासूत्रेऽपि ध्यान- युक्तमावर्त्तयेदोंपूर्व्यां गायत्रीमित्युक्तम् ॥ १४ ॥ उपसंहरति एतदिति । यत्र सन्ध्यात्रये ब्राह्मण्यमधिष्ठितं सदेतत् सन्ध्यात्रयं प्रकर्षेणोक्त तत्र सन्ध्यावये यस्थादरी नास्ति स ब्राह्मणो न कथ्यते मुनिभिः ॥ १५ ॥ यदधिषितम्, इति पाठान्तरम् ।