पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्म प्रदीपः । [ २प्र. १ख ] तिष्ठेदोदवनात्पूर्वी मध्यमामपि शक्तितः । आसीतोडूया चान्त्यां सन्ध्यां पूर्व्वत्रिकं जपन् ॥१४॥ परिशिष्टप्रकाशः । १६२ अनन्तरञ्च - पूर्व्व संध्यां प्रणवमहाव्याहृतिसावित्रीरूपत्रिकं जपना उदयात् सूर्योदयपर्यन्तं तिष्ठेत् । उत्थितो भवेदित्यर्थः । मध्यमामपि सन्ध्यां यथाशक्ति त्रिकं जपंस्तिष्ठेत् । पश्चिमान्तु आ उडूदयाननवदर्शनपर्य्यन्तं जपन्नासीत उपविष्टः स्यात् । पूर्वामित्यादिद्वितीयाऽत्यन्तसंयोगे तेन सन्ध्यारम्भः पूर्वो जपस्या वधिरिति सिद्धम् ॥ १४ ॥ प्रभा । श्रेयः प्राप्यते तस्मात् प्रयासभूयस्त्वात् श्रेयसो भूयस्त्वं युक्त मिति भावः । भूयस्त्वं बाहुल्यम् । श्रेयः अभ्युदयम् ॥ १३ ॥ तिष्ठेदिति । पूचीमित्यादौ सर्वत्रात्यन्तसंयोगे द्वितीया । पूर्वी सन्ध्यां पूर्वत्रिक प्रणवमहाव्याहृतिगायत्रीरूपं जपन् आ उदयनात् सूर्योदयपर्यन्तं तिष्ठेदुतो भवेत् । प्रात:सभ्याया- मुत्थितः सन् सूर्योदयपर्यन्तं प्रणवमहाव्याहृतियुक्तां गायत्रीं जपेदित्यर्थः । एवमग्रेऽपि । मध्यमामपि सन्ध्यां पूर्व्वत्रिकं जपन् शक्ति उत्तिष्ठेत् । अशक्ती त्वासीत । अन्त्य सन्ध्यां पूर्व्वत्रिकं जपन् आ उदयात् नचत्रोदयपर्यन्तमासीत उपविष्टो- भवेत् ।