पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ २प्र. १ख. ] कम्मप्रदीपः । तदस सक्तपार्वा एकपादईपादपि । कुर्यात्कृताञ्जलिर्वापि अर्द्धवाहुरथापि वा ॥ १२ ॥ यत्र स्यात्कृच्छ्रभूयस्त्वं श्रेयसोऽपि मनीषिणः । भूयस्त्वं ब्रुवते तब कृच्छ्राच्यो ह्यवाप्यते ॥ १३ ॥ परिशिष्टप्रकाशः । तत् उपस्थानं भूम्यलग्नगुल्फतलभागो भूमिष्ठेकचरणो भूमिष्ठाई- चरणोऽपि वा कुर्य्यात् । शेषं सुगमम् ॥ १२ ॥ गुरुलघुप्रयाससाध्यानां कथं विकल्प इत्यवाह प्रयासबाहु- ल्यात् फलभूयस्त्वमिति । अक्षरार्थों निगदव्याख्यात इति ॥ १३ ॥ प्रभा । तदिति । भूम्यलग्नगुलफतलभागो वा भूमिलग्नैकचरणो वा भूमिलग्नचरणार्डो वा तदुपस्थानं कुर्य्यात् । तत्रापि कृतालिर्वा ऊर्वबाहुर्वा कुर्य्यात् । अव सन्ध्याचयप्रक्रमे कृताञ्जलिर्वा ऊई- बाहुति तुल्यवद्दिकल्पाभिधानात्-. . “सायंप्रातरुपस्थानं कुर्यात् प्राञ्जलिरानतः । जईबाहुश्च मध्यान्हे तथा सूर्यस्य दर्शनात्” । इति हारीतोक्का व्यवस्था गोभिलीयव्यतिरिक्तविषया ॥ १२ ॥... लघुगुरुप्रयाससाध्यानामसंसलपार्थिवादीनां विकल्पमुपप्रा- दयति यत्त्रेति । यत्र प्रयासभूयस्त्वं तत्र श्रेयसोऽपि भूयस्त्वं मनीषिणो ब्रुवते । तत्र हेतु: कृच्छ्रादिति । यस्मात् प्रयासात्