पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम प्रदीपः । परिशिष्टप्रकाशः । व्याहतयस्तिस्रोमहरा दिचतुष्टयं च तत्सवितुरिति गायत्री च तथा आपोज्योतिरित्यादि शिरः । एतस्मिन् समुदाये प्रत्यवयवमादौ ॐकारमुच्चारयेत् । ततोभूरादिव्याइतिसप्तकादौ सप्त प्रणवाः, गायत्रादौ चैकं, शिरसञ्चादावन्ते च इयमित्येवं दश प्रणवाः । पता: सप्त व्याहतो: एतां गायत्रीमनेन शिरसा सह तथेभिर्दशभिः प्रणवैः सह निरुडमाणस्त्रिर्जपेत् । स प्राणायाम- उच्चते ॥ ६ ॥ ७ ॥ ८॥ १५८ प्रभा । एतां गायत्री अनेन शिरसा सह, तथा एभिर्दशभिः प्रणवैः सह, नियमितप्राण : त्रिर्जपेत् । सोऽयं प्राणायाम: कथ्यते । यद्यपि प्राणायामशब्दः प्राणस्यायमनमभिधातुमर्हति, तथापि तसंबन्धा- जपोऽपि प्राणायाम कथ्यते । प्राणयामः स उच्चते इत्यभि धानात् प्राणायामपदार्थोऽव परिभाष्यते । न त्वयं तत्कर्त्तव्यता- बोधको विधिः । स तु “ एवं वोन् कृत्वा सप्त वा षोड़श वाचामेत्” । इति सभ्यासूत्रादुपलब्धव्यः । तथाच प्राणायाम- चयमवश्यं कर्त्तव्यम् । स्मरन्ति च । "प्राक्कुलेषु ततः स्थित्वा दर्भेषु च समाहितः । प्राणायामवयं कृत्वा ध्यायेत् सन्ध्यामिति श्रुतिः” ॥ इति । • [ २प्र. १ख. ] "प्राणायामत्रयं कार्यं सन्यास च तिसृष्वपि ” । इति चैवमादि बहुलम् ॥ ८ ॥