पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः [ २प्र. १ख. ] भूराद्यास्तिस एवैता महाव्याहृतयोऽव्ययाः । महर्जनस्तपः सत्यं गायत्री शिरसा सह ॥ ६ ॥ आपोज्योतौरसोऽमृतं ब्रह्म भूर्भुवःस्खरिति शिरः । प्रतिप्रतीकं प्रणवमुच्चारयेदन्ते च शिरसः ॥ ७ ॥ एता एतां सहानेन तथैभिद्दशभिः सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्चते ॥ ८ ॥ परिशिष्ट प्रकाशः । १५७ अनन्तरं प्राणायाममा इ- भूर्भुवः स्खरित्येता एव मार्ज्जनोक्ता: अव्ययमुक्तिफलत्वादव्यया महा- प्रभा । अथेदानों प्राणायामं वक्तुं तन्मन्त्रानाह भूराद्या इति । भूर्भुवः स्वरित्येतास्तिस्र एव महाव्याहृत योऽव्ययफलवादव्ययाः । महरादिचतुष्कमपि व्याहृतय एव । भूर्भुव:खर्महर्जनस्तपः सत्यमिति सप्त व्याहृतय इति सभ्यास्त्रात् । गायत्री शिरश्च ॥ ६ ॥ किमिदं शिरो नाम ? तदाह प्रपोज्योतीरिति । प्रत्यवयवमादी, शिरस आदावन्ते च प्रणवमुदीरयेत् । तथाच सतानां व्याहतीनामादो सप्त प्रणवाः, गायत्रया आदौ चैक: । शिरस आदावन्ते चेति मिलित्वा दश प्रणवा भवन्ति ॥ ७ ॥ सम्प्रति प्राणायाममाह एता इति । एताः सप्त व्याहती :

  • गायलीच शिरस्तथा इतिक पुस्तके पाठः