पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ कप्रदीपः । [ २म. १ख.] प्रणवोभूर्भुवः स्वञ्च सावित्री च तृतीयिका । अव्दैवतस्तृचश्चैव चतुर्थ इति मार्जनम् ॥ ५ ॥ परिशिष्टप्रकाशः । माज्जैनमन्त्रमाह- ॐकारो भूरादिव्याहृतित्रयं तृतीया च गायत्री चतुर्थ आपो- हिष्ठेत्यादिऋकत्रयमितीदं मार्जनक्रियाकरणमित्यर्थः ॥ ५ ॥ प्रभा । दिभिरिदानीमेव माधवाचायंप्रभृतिभिस्तु सन्ध्या सूत्रोक्कक्रम एव मार्जनं लिखितम् ॥ ४ ॥ 1 मार्जनमन्त्रानाई प्रणव इति । सत्र तावत् प्रणव एको- मार्जनमन्त्रः । व्याहृतित्रयमपर: गायत्री चान्य: । अबदेवत्य- मापो हिष्ठामयो भुव इत्यादि ऋक्त्रयमपरी मन्त्रः । तृतीयिका इति चतुर्थमिति चोपादानात् तथाऽवगतेः । तथाच प्रणवेणैकं, व्याहृतिभिरेकं, गायचैरकं, आपोहिष्ठादिऋक्वयेण चैक मार्जन कर्त्तव्यमिति पर्थवस्यति । अतएव, - "ऋगन्ते मार्जनं कुर्य्यात् पादान्ते वा समाहितः । आपोहिष्ठाचा कार्यं मार्जनन्तु कुशोदकैः ॥ प्रतिप्रणव संयुक्तं चिपेम्भूति पदे पदे । रचस्यान्तेऽथवा कार्य्यऋषीणां मतमोदृशम्” ॥ इति स्मृत्यन्तरे मार्ज्जने बहवः कल्पा उक्ता | तत्व वृश्चस्यान्ते इति च्छन्दोगविषयं, स्वशास्त्रानुग्रहात् ॥ ५ ॥ . देश चतुर्थं, इति पाठान्तरम् ।