पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ २८. १ख. ] कम्प्रदीपः । रक्षान्ते वारिणात्मानं परिक्षिप्य समन्ततः । शिरसोमार्जनं कुर्यात् कुशैः सोदकविन्दुभिः ॥ ४ ॥ १५५ परिशिष्टप्रकाशः । आचमनाम्ते आत्मानं जलेन वेष्टयित्वा रक्षा कार्य्येति शेषः । अनन्तरं कुशेर्जलविन्दु सहितैः शिरसोमार्जनं कुर्यादिति ॥ ४ ॥ प्रभा । पवित्र ग्रहणीयं, किन्त्ववस्था विशेषशून्धं कुशमात्रमित्यर्थः । सव्यो वामः करः सोपग्रहो बहुतरकुशयुक्तः, दक्षिणवानन्तरोक्त- पवित्रसहित कार्य्य: ॥ २ ॥ ३ ॥ रचयेदिति । समन्ततो वारिणा परिवेश्य आत्मानं रक्षयेत् + नारायणोपाध्यायेन तु रचान्ते इति पठितम् । घाचमनाले आत्मानं जलेन परिवेश्य रक्षा कार्येति व्याख्यातञ्च | अनन्तर जलविन्दुमहितैः कुभैः शिरसो मार्जनं कुर्य्यात् । अवादित एक मार्जनोपदेशात् प्राणायामात् परमाचमनानन्तरं तदमुपदेशात् सन्ध्यास्त्रे चेदानीं तदनुपदेशात् प्राणायामात् परमाचमना नन्तरं तदुपदेशाचैतद्न्यानुसारादिदानीं वा सम्भ्यासूत्रानुसारात् प्राणायामात् परमाचमनानन्तरं वा मार्जनं कार्य्यम् । सोऽयं विकल्पः | इयोरेव वशास्वत्वात् शिष्टाचारस्य चोभयथा दर्शनात् । केचित् किल शिष्टा इदानीमेव केचिश्व सभ्यासूत्रोक्त क्रमेणैव मार्जनमाचरन्तो दृश्यन्ते । अतएव सुबोधिनौकारा

  • रचवेत् इति पाठान्तरम् ।