पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ कप्रदीपः | [ २प्र. १ख. ] सव्ये पायौ कुशान् कृत्वा कृर्यादाचमनक्रियाम् । हखाः प्रचरणौयाः स्युः कुशादीर्घाश्च वर्हिषः ॥ २ ॥ दर्भाः पवित्रमित्युक्तमतः सन्ध्यादिकमणि । सव्यः सोपग्रहः कार्थी दक्षिणः सपवित्रकः ॥ ३ ॥ परिशिष्टप्रकाशः । सख्याप्रवृत्तः प्रथमं वामहस्ते कुशान् कृत्वा आचमनानुष्ठानं कुर्य्यात् । यतो इस्खाः कुशा: पार्व्वणपञ्चयन्नादिकर्मानुष्ठानार्हाः, दोर्घाश्च स्तरणार्थं वर्हिषो भवन्ति, दर्भा एव अनन्तर्गर्भिणमित्यादि- लक्षणं पवित्रमित्युक्तम् । अतस्तदवस्थापनानां सर्वक सूपयोगात् सन्ध्यादिक खपि वामः करो बहुतरकुशसहितः, दक्षिणय पाणि: पवित्रकुशसहितः कार्य इति । अन्ये तु यतः कुशविशेषाणां तत्तत्कम विनियोगो न सध्यादिकम् । अतः सन्ध्यादिकम्म- स्ववस्थाविशेषशून्याः कुशा: पवित्रमित्युक्तमिति व्याचक्षते ॥२॥३॥ प्रभा । सन्थ्योपासनविधिमाह सव्ये पाणाविति । वामहस्ते कुशान् गृहीत्वा पाचमनं कुर्य्यात् । प्रसङ्गात् कुशान् विशिनष्टि इखा- इति सार्डेन । हखा: कुशा: प्रचरणीयाः पार्कणपञ्चयनादि- कम्मानुष्ठानयोग्याः, दीर्घा कुशा वर्हिषः स्वरणार्था इत्यर्थः । यतस्ततत्कम्स्यवस्थाविशेषविशेषिताः कुशा विहिताः, अतः सख्यादिकम्मण्यवस्था विशेषरहिता: कुशा: पवित्रमित्युक्त पूर्व्वा- चा: । नाव पवित्रपदेन अनन्तर्गर्भिणं साग्रमिति परिभाषितं