पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ २प्र. १ख.] प्रभा । सा चोपास्या देवता ब्रह्मैव । तथाच तैत्तिरीयाः समामनन्ति । “उद्यन्तमस्तं यन्तमादित्यमभिष्यायन् कुर्व्वन् ब्राह्मणो विद्वान् सकलं भद्रमसे असावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद" इति । प्राणायामादिकं कुर्व्वन् आदित्यमभिध्यायन् इत्यर्थ: । मञ्चाः क्रोशन्ति इति वदवादित्यशब्देनादित्यमण्डल- मध्यवर्ती परमात्मा भण्यते । स्थानेन स्थानिनो लक्षणात् । गायवार्थानुगमाच | स्मरन्ति च, - इति । कन्मप्रदोषः । "आदित्ये ब्रह्म इल्वेषा निठा ह्युपनिषत्खपि । कान्दोग्ये बृहदारण्ये तैत्तिरीये तथैवच” || “प्रणवव्याहृतिभ्याञ्च गायत्रया त्रितयेन च । उपास्यं परमं ब्रह्म मात्मा यत्र प्रतिष्ठितः” ॥ इति चैवमादि । तथा, "न भिन्नां प्रतिपद्येत गायत्रीं ब्रह्मणा सह । सोऽहमस्मीत्युपासीत विधिना येन केनचित्” | इति । “ॐकारो भगवान् विष्णुः" इत्यादिवहाच्यवाचकयो- रमेदादित्यभिप्रायः | गायत्री प्रतिपाद्यः सूर्यमण्डलान्तर्गतः परमेश्वरोऽहमस्मीति, प्रत्यगारमपरमात्मनोरभेदबुयोपासीते- त्यर्थः ॥ १ ॥ २०