पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १०ख. ] ग्रहणे गङ्गाजलसमानि। सुव्यक्तम् ॥ १४ ॥ कप्रदीपः । परिशिष्टप्रकाश: । तस्माद्रहणेऽपि रजोदोषाभावः । शेषं दशमः खण्ड: । इति महामहोपाध्यायश्रीनारायणकते परिशिष्टप्रकाशे प्रथमः प्रपाठकः समाप्तः ॥ १५१ प्रभा । समानोति । चन्द्रसूर्यग्रहणे भूमिष्ठानि सर्व्वाणि भांसि जलानि कूपस्थितान्यपि गङ्गाजलतुल्यानि भवन्ति अतो न तत्र रजोदोष इत्यभिप्राय: । भूमिष्ठजलानां गङ्गाजल समत्ववचनात् उद्धृतजलानां न तथात्वम् ॥ १४ ॥ इति दशमः खण्डः । इति महामहोपाध्यायश्रीचन्द्रकान्ततर्कालङ्कारविरचितायां कन्येप्रदीपप्रभायां प्रथम: प्रपाठकः ।