पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १० ख. ] कमप्रदोषः । ऋषीणां सिच्यमानानामन्तरालं समाश्रिताः । संपिबेयुः शरोरेण पर्षन्मुक्तजलच्छटाः ॥ ११ ॥ विद्यादीन् ब्राह्मणः कामान् पुत्रादौन्नार्थ्यपि ध्रुवान् । आमुभिकाण्यपि मुखान्याप्नुयात् स न संशयः ॥ १२॥ परिशिष्ट प्रकाशः । १४८ न केवलं रजोदोषनाश: किन्तु, - - उच्चैर्ऋषीनभिषिञ्चन्तीति वचनात् सिचमानानामृषीणां मध्यमाश्रितः सेककर्तृसमुदायमुक्तजलच्छटा यः शरीरेण प्रतीच्छे- ब्राह्मणः स विद्याधनादीन् कामानार्थ्यपि प्रतीच्छन्तीपुत्रसभा ग्यादीन् स्थिरान् लभत इति अत्र न सन्देहः कार्थः ॥ ११ ॥ १२ ॥ प्रभा । नदीजले एषां वेदादौनां समागमः तत्र अन्ये सर्वे ब्रह्महत्यादयो- बहवो दोषा: निश्चितं नाशं यान्ति, तत्र एक नदोरजः नाशं यासीति किमु वक्तव्यम् ॥ ८ ॥ ८ ॥ १० ॥ ऋषीणामिति । उपोकमणि उत्सर्गे च, उच्चैः ऋषीनभि षिश्चेत् इति वचनात् उच्चैः ऋषीणामभिषेक: कर्त्तव्यः । तत्र च सियामानानां ऋषीणां अन्तरालं मध्यं आश्रितः यः कचित् पर्षन्मुक्तजलच्छटा : सेककर्त्तृसमुदायमुक्तान् जलकणान् शरीरेण

  • प्रतीच्छेत् गृतीयात्, स ब्राह्मण: विद्यादीन् कामानाप्नुयात्

योषिदपि ध्रुवान् चिरस्थायिनः पुत्वादीन् कामा नाप्नुयात् नाव संशयः कार्य: ॥ ११ ॥ १२ ॥