पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः | उपाकमणि चोत्सर्गे प्रेतस्नाने तथैवच | चन्द्रसूर्य्यग्रहे चैव रजोदोषो न विद्यते ॥ ७ ॥ [ १प्र. १०ख. ] १४७ परिशिष्टप्रकाशः । न ता नदीशब्दवाच्याः किन्तु गर्त्तास्ते सर्वैर्मुनिभिरुक्ता इति । धनुः परिमाणं हस्तचतुष्टयम् । तथाच विष्णुधर्मोत्तर प्रथमकाण्डम् । “हादशाङ्गुलिक: शङ्कस्तयञ्च शयः स्मृतः । तच्चतुष्कं धनुः प्रोक्तं क्रोशो धनुःसहस्रकः” ॥ भयोहस्तः ॥ ६ ॥ यव्यदयस्थापवादमाह, - उपाकमादिषु रजोदोषो नास्ति ॥ ७ ॥ प्रभा । स्राणि, कालाध्वनोरत्यन्तसंयोगे इत्यनेन द्वितीया । गतिर्नास्ति, ता पापी नदीशब्दवाया न भवन्ति । ते गर्त्ता मुनिभिः कथिताः । विधेयप्राधान्य विषचया ते इति पुंसा निर्देशः । धनुः परिमाणमाह विष्णुधर्मोत्तरप्रथमकाण्डम्- "दादशाङ्गुलिक : शत्रुः तद्दयन्तु शयः स्मृतः । तञ्चतुष्कं धनुः प्रोक्तं क्रोशो धनु:सहस्रक: " ॥ n नदीनां रजोदोषस्थापवादमाह उपाकणौति । उपाकर्म, 'प्रौष्ठपद्यां हस्तेनोपाकरणमिति गोभिलोक्तम् । उत्सर्गः, तेषीमुत्सृ- जन्ति इति गोभिलस्वोतएव । प्रसिद्धमन्यत् । उपाकर्मादिषु रजोदोषोनास्ति ॥ ७ ॥