पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ कम्प्रदीपः । [ १प्र. १० ख. ] धनुःसहस्राण्यष्टौ च गतिर्यासां न विद्यते । न ता नदीशब्दवहा गर्त्तास्ते परिकोर्त्तिताः ॥६॥ परिशिष्टप्रकाशः | नदीलक्षणमाह - यासामपां धनुः सहस्राष्टकपरिमितदेशपर्यन्तं गमनं नास्ति प्रभा । गामिनीनामेव ग्रहणं, न तु परम्परया समुद्रगामिनीनामपि । तथात् सव्वासामेव नदीनां तथात्वात् वर्ज्जयित्वा समुद्रगा- इत्यनुपपत्तेः । यदाह मनुः - “यथा नदीनदा: सर्व्वे समुद्रे यान्ति संस्थितिम्” । इति । स्मरन्ति च । इति । "गङ्गा च यमुना चैव लक्षजाता सरखती । रजसा नाभिभूयन्ते ये चान्ये नदसंज्ञका : " | "गङ्गा धम्मंद्रवी पुण्या यमुना च सरखती । अन्तर्गतरजोयोगे सर्व्वाह : खेव निर्मला: " ॥

इति चैवमादि । अन च तासु इत्यधिकरणत्वेन निर्देशात् जलान्तरासम्भवे उद्धृततळलेन स्नानं न निषिडमिति प्रतीयते । अतएव व्याघ्रपाद:- "अभावे कूपवापीनामन्येनापि समुद्धृते | रजोदुष्टेऽपि पयसि ग्रामभोगो न दुष्यति” ॥ ५ ॥ नदीलक्षणमाह धनुःसहस्राणौति । यासामपां अष्टौ धनु: सह-