पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । [ १प्र. ८ख. ] योऽनचिंषि जुहोत्यग्नौ व्यङ्गारिणि च मानवः । मन्दाग्निरामयाव च दरिद्रश्च स जायते ॥ १२ ॥ तस्मात समिद्धे होतव्यं नासमिद्धे कदाचन । आरोग्यमिच्छताऽऽयुश्च श्रियमात्यन्तिकों तथा ॥ १३ ॥ जुहूषंश्च हुते चैव पाणिसूर्यस्फादारुभिः । न कुर्य्यादग्निधमनं न कुयाद्यजनादिना ॥ १३८ 11 परिशिष्टप्रकाशः उक्ताङ्गाराचिः शून्ये लग्नौ जुहोति यो मानवः स दीर्घरोगी · जायते । शेषं सुगमम् ॥ १२ ॥ न केवलं समिद्धे होमे मन्दाग्मिवादिपरिहार किं त्वारोग्यादयः सातिशय सम्पत्तयोऽपि प्राप्यन्ते इत्यारोग्य मिच्छते त्यादिनोक्तम् ॥ १३ ॥ होतुमिच्छन् हुते चाग्नौ उद्दीपनं पाण्यादिभिर्न कुयात् । प्रभा । योऽनर्षिषीति । योमानवः अर्चि:शून्ये विगताङ्गारे चाग्नौ जुहोति, स मन्दाग्निः, अन्यैरप्या मयैरोगैर्युक्तः, दरिद्रश्च भवति ॥ १३॥ तस्मादिति । यस्मादेवं, तस्मात् आत्यन्तिकं आरोग्यं आयुः त्रियचेच्छता समिद्धे अग्नौ होसव्यं, असमिडे त्वग्नौ कदाचिदपि न होतव्यमिति निन्दातिशयार्थमुक्तम् ॥ १३ ॥ जुहषंथेति । होमात् पुरस्तात् परस्ताञ्च अग्नेरुद्दीपनं हस्ता- माणिस्य दारूभिः इति क पुस्तके पाठः |