पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ कप्रदीपः । [ १प्र. ८ख. ] यान्यधः स्तरणाम्नानान्न तेषु स्तरणं भवेत् । एककायार्थसाध्यत्वात्परिधीनपि वर्जयेत् ॥ ८ ॥ परिशिष्टप्रकाशः ।. निःक्रमणे उक्तम् । तथा समुदायेन क्रियमाणेषु कर्मसु गणान्से वामदेव्यम् । न त्वेकैककमान्ते । पञ्चयज्ञान्तर्गतवैश्वदेविक हो मे च यद्दामदेव्यन्तहस्यन्ते न तु होमानन्तरमेव भवेदिति ॥ ७ ॥ अग्निमुपसमाधाय कुशैः समन्तं परिस्तुणयादितिस्तरेणोप देशात्पूर्ध्वं यानि सायं प्रातमादीनि गोभिलोक्तानि, तेषु स्तरणवास्ति । तथा तेषु परिधोनपि स्तरणवैकल्पिकान्- परिधीनप्येके कुर्व्वन्तीत्युक्तान् त्यजेत् । हेतुमाह । एककार्थे- त्यादि । यथा स्तरणस्थ होमरूपकार्थ्यार्थकत्वात् अग्निवेष्टनं साध्यम्, तथा परिधीनामपि । अतस्तुल्यकार्यत्वात् परिधीनामपि निवृत्तिरिति । अथवा होमार्थैकहोमकर्त्तृमात्रसाध्यत्वेन चिप्र- प्रभा । गानं भवेत् । तत्र निदर्शनं, यथोक्तं चन्द्रदर्शने इति । यथा चन्द्र- दर्शने निष्कुमणे उक्तमित्यर्थः । तथा गणेषु संघशः क्रियमाणेषु भनेकेषु कर्मस, गणस्यान्ते एकं वामदेव्यगानं भवेत् न प्रति कमान्ते । एवं पञ्चयज्ञान्तर्गतवेखदेवहोमस्थान्ते यद्दामदेव्यगानं, तत् बलिक मैणोऽन्ते भवेत्, न तु वैश्वदेवहोमस्यान्ते एव ॥ ७ ॥ यान्यध इति । अग्निमुपसमाधाय कुशैः समन्तं परिस्तृणयात् इति सूत्रेण गोभिलेन यत्परिस्तरणमुपदिष्टं तस्मादधः पूर्वं