पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । [ १प्र. ८ख. ] यावत् सम्यङ् न भाव्यन्ते नभस्यृक्षाणि सर्वतः । न च लौहित्यमापैति तावत्सायञ्च इयते ॥ ३ ॥ १३० परिशिष्टप्रकाशः । अस्तमित सायमाहुतिं जुहुयादिति स्त्रोक्तं तत्रोत्तरमवधिं व्यक्तीकरोति । यावत्सम्यग्दिवि नक्षत्राणि नोपलभ्यन्ते सर्वाणि सूक्ष्माणि न स्थूलानि, सन्ध्यारागच न नश्यति । तावसायं होमस्य कालः पुण्यः । अवाप्यसम्भवेऽन्योऽपि आप्रातराहुतेरिति सूत्रोक्तः कालः सूचितः ॥ ३ ॥ प्रभा । यत्तु अभ्युदित इत्यभिशब्दस्य सर्व्वतोभावार्थस्योपादानात् सम्पूर्ण सूर्यमण्डलदर्शने उदितहोमो नार्कोदितादाविति नारा- यणोपाध्यायेनोक्तम् । तदेतद्दचनानवलोकनेन । पुण्य इत्युपा- दानामुख्योऽयं कालः । अतिपाते तु प्रायश्चित्तं कृत्वा कालान्तर होतव्यम् । तथाच गोमिलसूत्रम् | आसायमाहुतें: प्रातराहुतिर्ना- व्येति आप्रातराहतेः सायमाहुतिः इति ॥ २ ॥ अस्तमिते सायमाहुतिं जुहुयादिति स्त्रोतसायमाहुतिकाल- स्योत्तरावधिं सष्टयति यावदिति । यावदाकाशे सर्वेषु प्रदेशेषु नचवाणि सम्यक् नोपलभ्यन्ते न च सध्यारागः सम्यगपगच्छति, तावत् सायं हृयते याशिके: । आपेति या अपैति ॥ ३ ॥