पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ८ख, ] कम्प्रदीपः । हस्तादूई रविर्याबगिरि हित्वा न गच्छति । तावञ्चोमविधिः पुण्योनान्योऽभ्युदितहोमिनाम् ॥ २॥ १२८ परिशिष्टप्रकाशः । उदितेऽनुदिते वा प्रातराहुतिं जुहुयादिति उदितहोम: सूत्रोक्तः । अवोत्तरमवधिं व्यक्तीकरोति । भूमिं हित्वा हस्तपरिमितदेशादुपरिदेशं सूर्योयावत्र गच्छति तावत्कालं होमानुष्ठानं प्रशस्तम् । अभ्युदितहोमिनां नान्य- कालोनः प्रशस्त । अभ्युदित इत्यभिशब्दस्य सर्वतोभावार्थस्य उपादानासम्पूर्ण सूर्योदयदर्शने उदितहोमो न खर्बोदिताविति- वेदितव्यम् । एतस्य कालस्य प्राशस्त्याभिधानादसम्भवेऽन्योऽपि काल इति सूचितः । तथाच सूत्रम् | आसायमाहुते: प्रातराहुति- नत्येति आप्रातराहुते: सायमाहुतिरिति ॥ २ ॥ . प्रभा .... , उदितेऽनुदिते वा प्रातराहुतिं. जुहुयादिति. सूत्रोक्तस्योदित होमस्योत्तरमवधिं स्पष्टीकरोति इस्तादिति रविदुदयगिरिं परित्यज्य यावत् हस्तादूई न गच्छति तावदभ्युदित होमिनामु- दितहोमिनां होमविधिः पुण्यो न त्वन्ध: पुण्य । भुवं हित्वे ति पाठान्तरम् । अभ्युदितहोमिनामित्यभिरुपसर्ग: धात्वर्थमेवानु- वर्त्तते । सोऽयमुत्तरोऽवधिः । पूर्व्वमवधिमांह ग्टह्यासंग्रह:- "रेखामावन्तु दृश्येत रश्मिभिश्व समन्वितम् । उदयं तं विजानीयादोमं कुयादिचक्षण: " 11