पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः । SN सूर्येऽस्तशैलमप्राप्ते षट्विंशङ्किरथाङ्गुलैः । प्रादुष्करणमग्नौनां प्रातर्भासाञ्च दर्शने ॥ १ ॥ परिशिष्टप्रकाशः । पुराऽस्तमयादम्मिं प्रादुष्कृत्यास्तमिते सायमाहुतिं जुहुयात् । पुरोदयाप्रातः प्रादुष्कृत्योदितेऽनुदिते वा प्रातराहुतियादिति सूत्रे अस्नेः प्रादुष्करणमुक्तम्। तत्र प्रादुष्करणकालस्य उत्तरोऽवधि- रस्तमयोदयरूपो व्यक्तएव । पूर्व्वन्त्वपष्टं स्पष्टयति ।: भासान्दर्शने सूर्यरश्मिलोहिते प्राग्दिग्भागे इत्यर्थः । शेषं सुगमम् ॥ १ ॥ प्रभा । पुराऽस्तमयादग्निं प्रादुष्कृत्यास्तमिते सायमाहुतिं जुहुयात् पुरोदयात् प्रातः प्रादुष्कृत्यो दितेऽनुदिते वा प्रातराहुतिं जुहुयात् इति गोभिल सूत्रेणाग्ने: प्रादुष्करणकालः सायंप्रातर्होमकाल- योक्त: । तत्र प्रादुष्करणकालयोरुत्तरोऽवधिरस्तमयरूप उदय- रूपश्च स्पष्ट एव । तयोः पूर्व्वमवधिमस्पष्टं स्पष्टयति सू इति । सूक्ष्यं षट्त्रिंशद्भिरङ्गलैरस्ताचलमप्राप्ते सति सायमन्लीनां प्रादु- करणम् । भासां सूर्यरश्मीनां दर्शने सति प्रातरलीनां प्रादु करणकालः । सोऽयं पूर्वोऽवधि: भग्लोनामिति बहुवचनात् नेताग्निप्रादुष्करण कालोऽप्ययमेवेति बोधव्यम् ॥ १ ॥