पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । [ १प्र. ख. ] आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजापतिरितिस्थितिः ॥ १६ ॥ परिशिष्टप्रकाशः । होमेषु होतव्यानुपदेशे आज्यं द्रव्यं होतव्यं विधीयते । आज्यं गव्यमिति पाठान्तरम् । मन्त्रदेवतयोषानुपदेशे प्रजापतिर्देवता मन्त्रोऽपि प्रजापतिः, प्रजापतये स्वाहेत्यर्थः । अन्ये तु, समस्तां व्याहतं प्राजापत्यं मन्त्रमाहुः । तत्र च मन्त्रे प्रजापतिशब्द- प्रयोगात् मन्त्रमयो देवतेतिव्यक्तम् । तथा योगियाज्ञवल्काः । “यस्य यस्य तु मन्त्रस्य उद्दिष्टा या तु देवता । तदाकारं भवेत्तस्य देवत्वं देवतोच्यते ॥ १६ ॥ प्रभा । तत् ततः परमित्येवं रीत्या एकस्मात् पूर्व्वमपरं ततोऽपि पूर्व्व. मपरमित्येवं क्रमेणासादयेदित्युक्तं भवति । पुरोडाशकपालेन तुषानुपवपतीत्वत्र यथा भविष्यता पुरोडाशेन कपालस्य निर्देश- स्तयाऽवापि भविष्यताऽग्निनोत्तरस्या दिशो निर्देशो बोडव्यः । कुतः ? “भूमे: समूहनं कृत्वा गोमयेनोपलिप्य च । द्रव्याख्युत्तरतः स्थाप्य वर्षौं कुर्य्यादुदङ्मुखीम्” ॥ इति टह्यासंग्रह भूमिलेपनानन्तरमेव द्रव्यासादनाभि- - धानात् ॥ १५ ॥ आव्यमिति । होमेषु हविषोऽनादेशे भाज्यं होमसाधन-