पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ कभप्रदीपः । [ १प्र. ८ख. ] सुवाग्रे घ्राणवत् खातं ङ्गुष्ठं परिमण्डलम् । जुह्वाः शराववत् खातं सनिर्वाहं षड़ंगुलम् ॥ १३ ॥ परिशिष्टप्रकाश | मयो वा वितस्तिद्दयमानः स्रुवः स्मृतः । जुहूर्बाहुप्रमाण बोडव्या प्रगृह्यतेऽस्मिन्निति व्युत्पत्त्या प्रग्रहो दण्डः । स स्रुव- सुचोर्वर्तुलोबोडव्यः ॥ १२ ॥ सुवाग्रे नासारन्ध्रवन्मध्य स्थितमर्यादम् अद्भुउहयमितं वर्त्तुलं बिलं जेवम् । जुहास खातं शरावाक्कृति निःशेषहवनसाधनतया निर्वाहपदवाच्चप्रणालीसहितं षड़ङ्गुलं जानीयात् ॥ १३ ॥ प्रभा । वितस्तिदशाङ्गलम् । वितस्तिद्दयपरिमितः खादिर: पालाशो- वा सुवः स्मृतः । जुर्बाहुप्रमाणा वेदितव्या । तयोः सुवसुचीः प्रटते अस्मिन्निति प्रग्रहो धारणदण्ड: वृत्तो वर्त्तुलः विज्ञेयः ॥ १२ ॥ सुवाग्रे इति । सुवस्याग्रे यत् खातं, तत् घ्राणवत् अङ्गुष्ठद्दय- परिमितं परिमण्डलं वर्त्तुलं कर्त्तव्यम् । प्राणवदित्यनेन यथा नासारन्ध्रइयं मध्यस्थितमर्यादं तथा सुवाग्रस्थितं खातमपि मध्य स्थितमव्यादं कर्त्तव्यमित्युपदिशति । जुहाः खातं षड़गुल- परिमितं शराववत् कर्त्तव्यम् । तत्तु सनिर्वाहं प्रणालीसहितम् । साहि निःशेषहवनसाधनतया निर्वाहपदेनोच्यते ॥ १३ ॥