पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२४ कप्रदीपः । [ १प्र. ८ख. ] वर्णज्यैष्ठान बहीभिः सवर्णाभिश्च जन्मतः । कार्थ्यमग्निच्युतेराभिः साध्वीभिर्मन्यनं पृथक्॥६॥ जात्र शूद्रां नियुञ्जीत न द्रोहद्वेषकारिणीम् । नाशासनस्यां नान्येन पुंसा च सह सङ्गताम् ॥७॥ परिशिष्ट प्रकामः । प्रथमं ब्राह्मण्या, तदनु चत्रियया इत्येवं यथा वर्णज्यैष्ठम् असवर्णाभिः सवर्णाभिश्च जन्मज्यैष्ठाक्रमेणाग्निनिःसरणं यावत्र भवति तावसतीभिः पृथग्मन्थनं कार्य्यम् ॥ ६ ॥ अत्राधाने शूद्रां भाय न नियुञ्जीत। अंशूद्रापि प्राण-

प्रभा । मेकयाऽपि भार्यया विना आधानं न कार्यं, सर्व्वाभिरेव कार्य- मित्यर्थः । सर्व्वा यजमानभाय अन्वारभं न कुर्व्वन्ति चेत्, तदाधानं कृतमप्यकृतं विजानीयात् । तस्मादेकयापि भार्थ्यया विना आधानं न कार्य्यमित्यर्थः । अन्वारम्भो नाम नेवाकर्षणेन मन्थनानुकूल्यम् ॥५॥ तत्र विशेषमाह वर्णज्यैष्ठेनेति सवर्णासवर्णबहुस्त्रीसत्त्वे वर्णज्येष्ठेन ताभिर्मन्यनं कार्यम् । प्रथमं ब्राह्मण्या तदनु क्षत्रियया सदनु वैश्ययेत्यर्थ: 1 सवर्णबहस्त्रीसत्त्वे जन्मज्यैष्ठक्रमेण मन्यनं कार्य्यम् । उक्त क्रमेणाभिः साध्वीभिः स्त्रीभिरग्निनिःसरणपर्थ्यन्तं पृथङ्मन्थनं कार्य॑म् ॥ ६ ॥ नात्रेति । अवाग्निमन्यने विवाहितामपि शूद्रां न नियुजीत ।