पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्ममदीप: । अन्यत्र मथ्यते यत्तु तद्रोगभयमाप्नुयात् । प्रथमे मन्थने ह्येष नियमोनोत्तरेषु च ॥ १२ ॥ उत्तरारणिनिष्पन्नः प्रमन्यः सर्वदा भवेत् । योनिसङ्करदोषेण युज्यते अन्यमन्यकृत् ॥ १३ ॥ [ १प्र. ७ख ] परिशिष्टप्रकाशः | यत्पुनरन्धत्र मध्यते तस्माडेतो रोगभयं प्राप्नोति । अयं दोषः प्रथमाग्न्याधानमन्यने द्वितीयादिषु पुननेंति ॥ १२ ॥ प्रमन्योय: पूर्व्वमुक्तः स उत्तरारणे: काष्ठशकलमुहृत्य रन्धु- पूरणायें निष्पादितः । सर्व्वदा द्वितीयाधानादिष्वपि भवेत् । अन्यथात्वे दोषमाह हि यस्मादन्यतः प्रमन्यकारी योनिसङ्कर- दोषेण पापेन संबध्यते ॥ १३ ॥ प्रभा । इति । तत्र प्रथमवचनेन गुह्यस्य देवयोनित्वं भङ्गान्तरेणोक्तम् । द्वितीयवचनेन तु तसन्धेरिति विशेषः । सोऽयं विकल्पः ॥ ११ ॥ अन्यवेति । यदिति मन्यनक्रियाविशेषणम् । यत् पुनर्देव- योनेरन्यव पथ्यते, तमाडेतो रोगभयं प्राप्नोति मन्यनकर्ता । अयश्च नियम: प्रथमाधाने यन्मन्थनं क्रियते तत्रैव, न पुनराधाने कर्त्तव्ये द्वितीयादिमन्यनेषु ॥ १२ ॥ इदानीं प्रमन्थनिर्माण विशेषमाह उत्तरारणीति । उत्तरा अन्येषु ये त मनन्ति ते रोग भयभानुयुः इति पाठान्तरम् । ये