पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कप्रदीपः । यतद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते । तस्यां योजायते वह्निः स कल्याणकृदुच्यते ॥११॥ [ १प्र. ७ख. ] परिशिष्टप्रकाश: । वयवायज्ञ व्यवहारिभिः कायेंनोक्ता इति चतुर्विंशतरङ्गुष्ठानां विभाग: । हिशब्दोऽवधारणे ॥ १० ॥ यत्पूरङ्गुष्ठं गुह्यमित्यभिहितं तद्देवानामुत्पत्तिस्थानम् । अतस्तस्यां योनौ योऽग्निर्जायते सोऽभ्युदयकारी उच्चते । तस्मात्तव मन्थनं कायम् । एतदर्थमेव चाङ्गविभागकथनम् ॥ ११ ॥ प्रभा ।- चतुरङ्गुष्ठत्राङ्गुष्ठैकाङ्गुष्ठपरिमितानि भवन्ति । सोऽयं चतुर्विंश- त्यङ्गुष्ठानां विभाग: । एते अरण्यवयवा याजिकैः सर्व्वतोभावेन निश्चयेन कथिताः ॥ १० ॥ , मन्यनस्थानमाह यत्तदिति । यत्तदिति सर्व्वनामइयेन प्रसिहिमवद्योतयति । यद्गुह्यमिति कथितं सा देवस्याग्नेर्यो- निरुत्पत्तिस्थानमुच्यते । सेति विधेयप्राधान्यविवक्षया स्खौल्वेन निर्देशः । तस्यां मन्यनेन योऽग्निरुत्पद्यते स कल्याणकदभ्युदय- कारोति मुनिभिः कथ्यते । गोभिलपुत्रत्वाह - “मूलादष्टाङ्गुलमुव्सृज्य वीणि त्रीणि च पार्श्वयोः । देवयोनिः स विज्ञेयस्तत्र मथ्यो हुताशनः ॥ मूलादष्टाङ्गुलं त्यक्त्वा अग्रात्तु हादशाङ्गुलम् । देवयोनिः स विज्ञेयस्तव मथ्यो हुताशन: " ॥